||Sundarakanda ||

|| Sarga 13||( Slokas in Devanagari) )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

सुंदरकांड.
अथ त्रयोदशस्सर्गः

विमानुत्तु सुसंक्रम्य प्राकारं हरियूथपः।
हनुमान्वेगवानासीत् यथा विद्युद्घनांतरे॥1||

संपरिक्रम्य हनुमान् रावणस्य निवेशनात्।
अदृष्ट्वा जानकीं सीतां अब्रवीत् वचनं कपिः॥2||

भूयिष्टं लोळिता लंका रामस्य चरता प्रियम्।
न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम्॥3||

पल्वलानि तटाकानि सरांसि सरितस्तथा।
नद्योsनूपवनांताश्च दुर्गाश्च धरिणीधराः॥4||
लोळिता वसुधा सर्वा न तु पश्यामि जानकीम्।

इह संपातिना सीता रावणस्य निवेशने ॥5||
आख्याता गृथ राजेन न च पश्यामि तामहम्।

किं नु सीताsथ वैदेही मैथिली जनकात्मजा॥6||
उपतिष्टेत विवशा रावणं दुष्टचारिणम्।

क्षिप्र मुत्पततो मन्ये सीतामादाय रक्षसः॥7||
बिभ्यतो रामबाणानां अंतरा पतिता भवेत् ।

अथवा ह्रियमाणायाः पथि सिद्धनिषेविते॥8||
मन्ये पतिता मार्याया हृदयं प्रेक्ष्य सागरम्।

रावणस्योरुवेगेन भुजाभ्यां पीडितेन च॥9||
तया मन्ये विशालाक्ष्या त्यक्तं जीवित मार्यया।

उपर्युपरि वा नूनं सागरं क्रमतस्तदा॥10||
विवेष्टमाना पतिता समुद्रे जनकात्मजा।

अहोक्षुद्रेण वाsनेन रक्षन्ती शीलमात्मनः॥11||
अबंधुर्भक्षिता सीता रावणेन तपस्विनी।

अथवा राक्षसेंद्रस्य पत्नीभिरसितेक्षणा॥12||
अदुष्टा दुष्टभावाभिः भक्षिता सा भविष्यति।

संपूर्णचंद्र प्रतिमं पद्मपत्रनिभेक्षणम्॥13||
रामस्य ध्यायती वक्त्रं पंचत्वं कृपणा गता।

हा राम लक्ष्मणेत्येवं हाsयोध्ये चेति मैथिली॥14||
विलप्य बहु वैदेही न्यस्त देहा भविष्यति।

अथवा निहिता मन्ये रावणस्य निवेशने॥15||
नूनं लालप्यते सीता पंजरस्थेन शारिका।

जनकस्य सुता सीता रामपत्नी सुमध्यमा॥16||
कथमुत्पल पत्राक्षी रावणस्य वशं व्रजेत्।

विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा॥17||
रामस्य प्रिय भार्यस्य न निवेदयितुं क्षमम्।

निवेद्यमाने दोषः स्यात् दोषस्स्यादनिवेदने॥18||
कथं खलु कर्तव्यं विषमं प्रतिभाति मे ।

अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम्॥19||
भवेदिति मतं भूयो हनुमान् प्रविचारयत्।

यदि सीता मदृष्ट्वाsहं वानरेंद्रपुरी मितः॥20||
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।

ममेदं लंघनं व्यर्थं सागरस्य भविष्यति॥21||
प्रवेशश्चैव लंकाया राक्षसानां च दर्शनम्।

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः॥22||
किष्किंधां समनुप्राप्तं तौ वा दशरथात्मजौ।

गत्वातु यदि काकुत्थ्सं वक्ष्यामि परमप्रियम्॥23||
न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम्।

परुषं दारुणं क्रूरं तीक्ष्ण मिंद्रियतापनम्॥ 24||
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।

तं तु कृच्छगतं दृष्ट्वा पंचत्वगतमानसम्॥25||
भृशानु रक्तो मेधावी न भविष्यति लक्ष्मणः।

विनष्टौ भ्रातरौ श्रुत्वा भरतोsपि मरिष्यति॥26||
भरतं च मृतं दृष्ट्वा शतृघ्नो नभविष्यति।

पुत्रान् मृतान् समीक्ष्याथ न भविष्यति मातरः॥27||
कौसल्या च सुमित्रा च कैकेयी च न संशयः।

कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः॥28||
रामं तथा गतं दृष्ट्वा ततस्त्य क्ष्यति जीवितम्।

दुर्मना व्यथिता दीना निरानंदा तपस्विनी॥29||
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्।

वालिजेन तु दुःखेन पीडिता शोककर्शिता॥30||
पंचत्वं गते राज्ञे ताराsपि न भविष्यति।

मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च॥31||
कुमारोsप्यंगदः कस्माद्धारयिष्यति जीवितम्।

भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः॥32||
शिरांस्यभिहनिष्यंति तलैर्मुष्टिभिरेव च ।

सांत्वे नानुप्रदानेन मानेन च यशस्विना॥33||
लालिताः कपिराजेन प्राणांस्तक्ष्यंति वानराः ।

न वनेषु न शैलेषु न निरोधेषु वा पुनः॥34||
क्रीडामनुभविष्यंति समेत्य कपिकुंजराः।

सपुत्त्र दारास्सामत्या भर्तृव्यसनपीडिताः॥35||
शैलाग्रेभ्यः पतिष्यंति समेषु विषमेषु च।

विषमुद्बंधनं वापि प्रवेशं ज्वलनस्य वा॥36||
उपवास मधो शस्त्रं प्रचरिष्यंति वानराः।

घोरमारोदनं मन्ये गते मयि भविष्यति॥37||
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्।

सोsहं नैव गमिष्यामि किष्किंधां नगरी मितः॥38||
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना।

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ॥39||
आशया तौ धरिष्येते वानराश्च मनस्विनः।

हस्तादानो मुखादानो नियतो वृक्षमूलिकः॥40||
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्।
सागरानूपजे देशे बहुमूलफलोदके॥41||

चितां कृत्वा प्रवेक्ष्यामि समिद्द मरणीसुतम्।
उपविष्टस्य वा सम्यग्लिंगिनीं साधयिष्यतः॥42||
शरीरं भक्षयिष्यंति वायसाः श्वापदानि च।

इदं महर्षिभिर्दृष्टं निर्याण मिति मे मतिः॥43||
सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम्।

सुजातमूला सुभगा कीर्तिमाला यशस्विनी॥44||
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः।

तापसो वा भविष्यामि नियतो वृक्षमूलिका॥45||
नेतः प्रति गमिष्यामि तामदृष्ट्वाsसितेक्षणाम्।

यदीतः प्रतिगच्छामि सीता मनधिगम्यताम्॥46||
अंगदः सह तैः सर्वैः वानरैः नभविष्यति।

विनाशे बहवो दोषा जीवन् भद्राणि पश्यति॥47||
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवितसंगमः।

एवं बहुविधं दुःखं मनसा धारयन् मुहुः॥48||
नाध्यगच्चत् तदा पारं शोकस्य कपिकुंजरः।

रावणं वा वधिष्यामि दशग्रीवं महाबलम्॥ 49||
काम मस्तु हृता सीता प्रत्याचीर्णं भविष्यति।

अथ वैनं समुत्‍क्षिप्य उपर्युपरि सागरम्॥50||
रामा योपहरिष्यामि पशुं पशुपतेरिव।

इति चिंतां समापन्नः सीतामनधिगम्यताम्॥51||
ध्यानशोकपरीतात्मा चिंतयामास वानरः।

यावत्सीतां न पश्यामिरामपत्नीं यशस्विनीम्॥52||
तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः।

संपाति वचनाच्चापि रामं यद्यानया मह्यम्॥53||
अपश्यन् राघवो भार्यां निर्दहेत् सर्व वानरान्।

इहैव नियताहारो वत्स्यामि नियतेंद्रियः॥54||
न मत्कृते विनश्येयुः सर्वेते नरवानराः।

अशोक वनिकाचेयं दृश्यते या महाद्रुमा॥55||
इमां अधिगमिष्यामि न हीयं विचिता मया।

वसून् रुद्रां स्तथाssदित्यान् अश्विनौ मरुतोsपि च॥56||
नमस्कृत्वागमिष्यामि रक्षसां शोकवर्थनः।

जित्वातु राक्षसान् सर्वान् इक्ष्वाकुकुलनंदिनीम्॥57||
संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने।

स मुहूर्तमिव ध्यात्वा चिंतावग्रथितेंद्रियः।
उदतिष्टन् महातेजा हनुमान् मारुतात्मजः॥58||

नमोsस्तु रामाय सलक्ष्मणायै
देव्यै च तस्यै जनकात्मजायै।
नमोsस्तु रुद्रेंद्रयमानिलेभ्यो
नमोsस्तु चंद्रार्क मरुद्गणेभ्यः॥59||

सतेभ्यस्तु नमस्कृत्य सुग्रीवायच मारुतिः।60||
दिशस्सर्वास्समालोक्य ह्यशोकवनिकां प्रति ।

स गत्वा मनसा पूर्वं अशोकवनिकां शुभाम्॥61||
उत्तरं चिंतयामास वानरो मारुतात्मजः।

ध्रुवं तु रक्षोबहुळा भविष्यति वनाकुला॥62||
अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता।

रक्षिणश्चात्र विहिता नूनं रक्षंति पादपान् ॥63||
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै।
संक्षिप्तोsयं मयाssत्मा च रामार्थे रावणस्य च ॥64||

सिद्धिं मे संविधास्यंति देवास्सर्षिगणास्त्विह।
ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशंतुमे ॥65||
सिद्धिमग्निश्चवायुश्च पुरुहूतश्च वज्रभृत्।
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ॥66||
अश्विनौ च महात्मानौ मरुतः शर्व एवच।
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः।
दास्यंति ममये चान्ये ह्यदृष्टाः पथि गोचराः।67||

तदुन्नसं पांडुरदंतमव्रणम्
शुचिस्मितं पद्मपलाश लोचनम्।
द्रक्षे तदार्यावदनं कदान्वहं
प्रसन्न ताराधिपतुल्य दर्शनम्॥68||

क्षुद्रेण पापेन नृशंसकर्मणा
सुदारुणालंकृत वेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी
कथं नु मे दृष्टिपथेsद्य सा भवेत् ॥69||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयोदशस्सर्गः॥
॥ओम् तत् सत्॥

updated 09/30/2018 1620

 

 

 

 

 

 

 

 


|| Om tat sat ||